१. अधोलिखितानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तराणि लिखन्तु –
(क) कः प्रसिद्धः चिकित्सकः आसीत्? (प्रसिद्ध चिकित्सक कौन था?)
उत्तरः नागार्जुनः। (नागार्जुन)
(ख) अन्यस्मिन् दिवसे कौ आगतौ? (दूसरे दिन कौन आए?)
उत्तरः युवकौ आगतौ। (दो युवक आए)
(ग) कः खिन्नः आसीत्? (कौन उदास था?)
उत्तरः रोगीः खिन्नः आसीत्। (रोगी उदास था)
(घ) रुग्णस्य परिस्थितिः कथम् आसीत्? (रोगी की स्थिति कैसी थी?)
उत्तरः जटिला। (जटिल)
(ङ) नागार्जुनः सहायकरूपेण कं चितवान्? (नागार्जुन ने सहायक के रूप में किसे चुना?)
उत्तरः अनुचरं चितवान्। (अनुचर को चुना)
(च) कां विना चिकित्सकः न भवति? (किसके बिना चिकित्सक नहीं होता?)
उत्तरः करुणां विना। (करुणा के बिना)
(छ) नागार्जुनः युवकौ केन मार्गेण गन्तुं सूचितवान्? (नागार्जुन ने युवकों को किस मार्ग से जाने को कहा?)
उत्तरः वाममार्गेण। (बाएँ मार्ग से)
२. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु –
(क) अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म? (नागार्जुन दिन-रात कहाँ कार्य करते थे?)
उत्तर– अहोरात्रं नागार्जुनः आरोग्यधामे कार्यं करोति स्म। (नागार्जुन दिन-रात आरोग्यधाम में कार्य करते थे।)
(ख) नागार्जुनः महाराजं किं निवेदितवान्? (नागार्जुन ने महाराज को क्या निवेदन किया?)
उत्तर – नागार्जुनः महाराजं निवेदितवान् यः सेवायाः भावनया युक्तः स एव उत्तमः सेवकः भवति।
(नागार्जुन ने महाराज से निवेदन किया कि जो सेवा की भावना से युक्त होता है, वही उत्तम सेवक होता है।)
(ग) प्रथमः युवकः कथं कार्यं कृतवान्?(पहले युवक ने कार्य किस प्रकार किया?)
उत्तर – प्रथमः युवकः आत्मनः परिचयमपि न दत्तवान् तथा मौनं स्थाप्य कार्यं कृतवान्।
(पहले युवक ने अपना परिचय भी नहीं दिया और चुप रहते हुए कार्य किया।)
(घ) द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा किं कृतवान्?
(दूसरे युवक ने राजमार्ग पर रोगी को देखकर क्या किया?)
उत्तरः – द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा तम् अवगण्य गत्वा स्वगृहं प्राप्तः।
(दूसरे युवक ने रोगी को अनदेखा करके वहाँ से चला गया और अपने घर पहुँचा।)
(ङ) सेवायाः भावनां विना किं न भवेत्? (सेवा की भावना के बिना क्या नहीं होता?)
उत्तरः – सेवायाः भावनां विना उत्तमः सेवकः न भवेत्।
(सेवा की भावना के बिना कोई उत्तम सेवक नहीं बन सकता।)
३. उदाहरणानुसारम् अधोलिखितानां पदानां स्त्रीलिङ्गरूपाणि लिखन्तु —
| संख्या | पुल्लिंग रूप (पठितवान् आदि) | स्त्रीलिंग एकवचनम् | स्त्रीलिंग बहुवचनम् |
|---|---|---|---|
| (क) | पठितवान् | पठितवती | पठितवत्यः |
| (ख) | गतवान् | गतवती | गतवत्यः |
| (ग) | लिखितवान् | लिखितवती | लिखितवत्यः |
| (घ) | खादितवान् | खादितवती | खादितवत्यः |
| (ङ) | क्रीडितवान् | क्रीडितवती | क्रीडितवत्यः |
| (च) | हसितवान् | हसितवती | हसितवत्यः |
| (छ) | निवेदितवान् | निवेदितवती | निवेदितवत्यः |
| (ज) | सूचितवान् | सूचितवती | सूचितवत्यः |
४. उदाहरणानुसारम् अधोलिखितानां पदानां पुंलिङ्गरूपाणि लिखन्तु ।
| Sanskrit Feminine Form (स्त्रीलिङ्ग) | Masculine Singular (पुंलिङ्ग एकवचनम्) | Masculine Plural (पुंलिङ्ग बहुवचनम्) |
|---|---|---|
| पठितवती | पठितवान् | पठितवन्तः |
| कृतवती | कृतवान् | कृतवन्तः |
| दृष्टवती | दृष्टवान् | दृष्टवन्तः |
| दत्तवती | दत्तवान् | दत्तवन्तः |
| प्रक्षालितवती | प्रक्षालितवान् | प्रक्षालितवन्तः |
| धावितवती | धावितवान् | धावितवन्तः |
५.उदाहरणानुसारं वाक्यानि परिवर्तयन्तु —
यथा – पिता कषायं पिबति । – ‘पिता कषायं पीतवान् ।
अहं पुस्तकं नयामि। – ‘अहं पुस्तकं नीतवान् / नीतवती ।
| क्रम | संस्कृत वाक्य (वर्तमानकालः) | परिवर्तित वाक्य (भूतकालः) | हिन्दी अनुवाद (वर्तमान → भूतकाल) |
|---|---|---|---|
| (क) | युवकः आपणं गच्छति । | युवकः आपणं गतवान् । | युवक बाजार जाता है। → युवक बाजार गया। |
| (ख) | सः रोटिकां खादति । | सः रोटिकां खादितवान् । | वह रोटी खाता है। → वह रोटी खा चुका है। |
| (ग) | महिला वस्त्रं ददाति । | महिला वस्त्रं दत्तवती । | महिला कपड़ा देती है। → महिला ने कपड़ा दिया। |
| (घ) | बालकः द्विचक्रिकातः पतति । | बालकः द्विचक्रिकातः पतितवान् । | बालक साइकिल से गिरता है। → बालक साइकिल से गिरा। |
| (ङ) | पितामही चलच्चित्रं पश्यति । | पितामही चलच्चित्रं दृष्टवती । | दादी चलचित्र देखती हैं। → दादी ने चलचित्र देखा। |
| (च) | अहं गृहपाठं लिखामि । | अहं गृहपाठं लिखितवान् / लिखितवती । | मैं गृहपाठ लिखता/लिखती हूँ। → मैंने गृहपाठ लिखा। |
| (छ) | त्वं कुत्र गच्छसि ? | त्वं कुत्र गतवान् / गतवती ? | तुम कहाँ जाते हो? → तुम कहाँ गए/गई? |
| (ज) | अश्वाः वने धावन्ति । | अश्वाः वने धावितवन्तः । | घोड़े जंगल में दौड़ते हैं। → घोड़े जंगल में दौड़े। |
| (झ) | बालिकाः शीघ्रम् आगच्छन्ति । | बालिकाः शीघ्रम् आगतवत्यः । | बालिकाएँ जल्दी आती हैं। → बालिकाएँ जल्दी आईं। |
| (ञ) | वयं समुद्रतीरे पयोहिमं खादामः । | वयं समुद्रतीरे पयोहिमं खादितवन्तः / खादितवत्यः । | हम समुद्र किनारे आइसक्रीम खाते हैं। → हमने आइसक्रीम खाई। |
६. अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति। उपरि दत्तम् अवध्यायांशं पठित्वा ‘स्म’इति अव्ययपदं उपयोग्य अनुच्छेदं पुनः लिखन्तु।
कृषकस्य आत्मगौरवः (शीर्षकं लिखन्तु)
कृषकः प्रतिदिनं कृषिक्षेत्रं गच्छति स्म। (गच्छ्) । जलसेंचनं करोति स्म (कृ) । कीटानां निवारणार्थं जैवौषधं स्थापयति स्म (स्थापय) । सः कृषिकार्यं सम्यक् जानाति स्म (ज्ञा) । अतः अन्ये कृषकाः संशयेन पृच्छन्ति स्म (पूच्छ)। सः स्वाभिमानेन जीवति स्म (जीव) । अतः ‘अहं कृषकः भूमिपुत्रः’ इति साहिमानं वदति स्म (वद) । सः क्षेत्रे गोमयं योजयति स्म (योजय) ,न तु कृतकानां पदार्थान्। अतः व्रीहेः गुणवता अधिका भवति स्म (भव) । जनाः जालपुटमाध्यमेन तस्य तण्डुलं क्रीणन्ति स्म (क्रीण) । एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण सुखं जीवन्ति स्म (जीव) । सः सर्वान् वदति स्म (वद) – ‘कृषकः न दीनः, न च दरिद्रः, परं सर्वेषां पोषकः’ इति।
अनुवाद
शीर्षक: किसान का आत्मगौरव
किसान प्रतिदिन खेत में जाया करता था। वह जल का सिंचन किया करता था। कीटों से बचने के लिए वह जैविक औषधि लगाया करता था। वह कृषि कार्य को भली प्रकार जानता था। इसलिए अन्य किसान संदेह से पूछा करते थे। वह आत्मगौरव से जीवन बिताया करता था। इसलिए वह गर्व से कहा करता था – “मैं किसान हूँ, भूमिपुत्र हूँ। “वह खेत में गोबर डाला करता था, कृत्रिम पदार्थ नहीं इसलिए धान की गुणवत्ता अधिक होती थी। लोग इंटरनेट के माध्यम से उसका चावल खरीदा करते थे। इस प्रकार उसका परिवार कृषि कार्य से सुखपूर्वक जीवन यापन करता था। वह सबको कहा करता था – “किसान न तो दीन है, न दरिद्र, बल्कि सबका पोषक है।”
CBSE Class 10 Result 2026 can be declared anytime! Know expected date, how to check…
The CBSE Class 9 Syllabus 2026–27 has been updated according to the latest NCERT curriculum…
The ISRO YUVIKA 2026 (Young Scientist Program) offers Class 9 students a unique opportunity to…
Looking for effective exam preparation? This CBSE Class 8 Science Practice Paper 2026 with Answer…
Looking for effective exam preparation? This CBSE Class 8 Science Practice Paper 2026 with Answer…
Looking for effective exam preparation? This CBSE Class 8 Science Practice Paper 2026 with Answer…